|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.79. अध्यायः 079
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ऋत्विग्लक्षणादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-79-0x(5541)(67880)
क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर॥ 12-79-1(67881)
भीष्म उवाच। 12-79-2x(5542)
प्रतिकर्मपरा राजन्वृत्तिरस्य विधीयते।
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेवच॥ 12-79-2(67882)
ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः।
परस्परस्य सुहृदः समन्तात्समदर्शिनः॥ 12-79-3(67883)
आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम्।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः॥ 12-79-4(67884)
`यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते।'
धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः।
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः॥ 12-79-5(67885)
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति।
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः॥ 12-79-6(67886)
युधिष्ठिर उवाच। 12-79-7x(5543)
यदिदं वेदवचनं दक्षिणासु विधीयते।
इदं देयमिदं देयं न क्वचिव्द्यवतिष्ठते॥ 12-79-7(67887)
देयं प्रतिधनं शास्त्रमापद्धर्मा न शास्त्रतः।
आज्ञा शास्त्रस्य घोरे यं न शक्तिं समवेक्षते॥ 12-79-8(67888)
श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः।
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति॥ 12-79-9(67889)
भीष्म उवाच। 12-79-10x(5544)
न वेदानां परिभवान्न शाठ्येन न मायया।
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी॥ 12-79-10(67890)
यज्ञाङ्गं दक्षिणा तात मन्त्राणां परिबृंहणम्।
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन॥ 12-79-11(67891)
शक्तिस्तु पूर्णपात्रेण संमिता नावमा भवेत्।
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्थथाबलम्॥ 12-79-12(67892)
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः।
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते॥ 12-79-13(67893)
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते।
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः॥ 12-79-14(67894)
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत्।
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः॥ 12-79-15(67895)
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः।
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम्॥ 12-79-16(67896)
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः।
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु॥ 12-79-17(67897)
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा।
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम्॥ 12-79-18(67898)
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्।
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः॥ 12-79-19(67899)
निबोध दशहोतॄणां विधानं पार्थ यादृशम्।
चित्तिः स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्।
`न शाठ्यं न च जिह्यत्वं कालो देशश्च ते दश॥' 12-79-20(67900)
सर्वं दिह्नं मृत्युपदमार्जवं ब्रह्मणः पदम्।
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति॥ ॥ 12-79-21(67901)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनाशीतितमोऽध्यायः॥ 79॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-79-2 राज्ञां शान्तिकपौष्टिकादिकर्मप्रयोगशुद्ध्याख्यं प्रतिकर्म ऋत्विग्भिः कर्तव्यमित्यर्थः॥ 12-79-5 त्रिभिः श्रुतवृत्तवशैः। शुक्लैनिंर्दोषैः॥ 12-79-7 इदं देयमिदं देयमिति यदिदं वेदवचनमिति इति शब्दाध्याहारेण योज्यम्। व्यवतिष्ठते व्यवस्थां प्राप्नोति। अल्पेऽप्यपच्छेदनिमित्ते सर्वस्वदक्षिणाबिधानादुत्तरक्रतुकलापलोपप्राप्तेः॥ 12-79-9 गोःस्थाने चरुमात्रदानरूपोऽनुकल्पोमिथ्याचारस्तदुपेतो यज्ञः श्रद्धयापिनि संपूर्यत इत्यर्थः॥ 12-79-21 जिह्नं शाठ्यम्। आर्जवं अवक्रत्वम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|